१० . भुवनमण्डले नवयुगमुदयतु

 १० .  भुवनमण्डले नवयुगमुदयतु 

भुवनमण्डले नवयुगमुदयतु सदा विवेकानन्दमयम्
सुविवेकमयम् स्वानन्दमयम् ।।धृ०।।

तमोमयं जन जीवनमधुना निष्क्रियताऽऽलस्य ग्रस्तम् ।
रजोमयमिदं किंवा बहुधा क्रोध लोभ मोहामिहतम् ।
भक्ति ज्ञान कर्म विज्ञानैः भवतु सात्विकोद्योतमयम् ।।१।।

वह्निवायुजलबलविवर्धकं पाञ्चभोतिकं विज्ञानम् ।
सलिलनिधितलं गगनमण्डलं करतलफलमिव कुवार्णम् ।
दीक्षुविकीर्णं मनजकुलमिदं घटयतुचैककुटुम्बमयम् ।।२।।

सगुणाकारं ह्यगुणाकारं एकाकारमनेकाकारम् ।
भजन्ति एते भजन्तु देवं स्वस्व निष्ठयाविमत्सरम ।
विश्व धर्ममिममुदारभावं प्रवर्धयतु सोहार्दमयम् ।।३।।


जीवे जीवे शिवस्वरूपं सदा भावयतु सेवायाम् ।
श्रीमदूर्जितं महामानवं समर्चयतु निजपूजायाम् ।
चरतु मानवोऽयं सुहितकरं धर्मं सेवात्यागमयम् ।।४।।

Comments

Popular posts from this blog

४० . जिनके ओजस्वी वचनों से, गूँज उठा था विश्व गगन

४४ हे शारदे मां अज्ञानता से हमें तार दे माँ

४३ . ॐ जय जगदीश हरे